|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.124. अध्यायः 124
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दुर्योधनाय धृतराष्ट्रप्रोक्तेन्द्रप्रह्लादकथानुवादपूर्वकं शीलस्य धर्मादिकारणत्वप्रतिपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-124-0x(5675)(69706)
इमे जना मनुष्येन्द्र प्रशंसन्ति सदा भुवि।
धर्मस्य शीलमेवादौ ततो मे संशयो महान्॥ 12-124-1(69707)
यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभूतां वर।
श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते॥ 12-124-2(69708)
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत।
किंलक्षणं च तत्प्रोक्तं ब्रूहि मे वदतां वर॥ 12-124-3(69709)
भीष्म उवाच। 12-124-4x(5676)
पुरा दुर्योधनेनेह धृतराष्ट्राय मानद।
आख्यातं तप्यमानेन श्रियं दृष्ट्वा तवागताम्॥ 12-124-4(69710)
इन्द्रप्रस्थे महाराज तव सभ्रातृकस्य ह।
सभायां चापहसनं तत्सर्वं शृणु भारत॥ 12-124-5(69711)
भवतस्तां सभां दृष्ट्वा समृद्धिं चाप्यनुत्तमाम्।
दुर्योधनस्तदा दीनः सर्वं पित्रे न्यवेदयत्॥ 12-124-6(69712)
श्रुत्वा हि धृतराष्ट्रश्च दुर्योधनवचस्तदा।
अब्रवीत्कर्णसहितं दुर्योधनमिदं वचः॥ 12-124-7(69713)
धृतराष्ट्र उवाच। 12-124-8x(5677)
किमर्थं तप्यसे पुत्र श्रोतुमिच्छामि तत्त्वतः।
श्रुत्वा त्वामनुनेष्यामि यदि सम्यग्भविष्यति॥ 12-124-8(69714)
यदा त्वां महदैश्वर्यं प्राप्तं परपुरंजय।
किंकरा भ्रातरः सर्वे मित्रसंबन्धिबान्धवाः॥ 12-124-9(69715)
आच्छादयसि प्रावारानश्नासि पिशितौदनम्।
आजानेया वहन्ति त्वां कस्माच्छेचसि पुत्रक॥ 12-124-10(69716)
दुर्योधन उवाच। 12-124-11x(5678)
दश तात सहस्राणि स्नातकानां महात्मनाम्।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने॥ 12-124-11(69717)
दृष्ट्वा च तां सभां दिव्यपुष्पफलान्विताम्।
अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च॥ 12-124-12(69718)
दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम्।
अमित्राणां सुमहतीमनुशोचामि मानद॥ 12-124-13(69719)
धृतराष्ट्र उवाच। 12-124-14x(5679)
यदीच्छसि श्रियं तात यादृशी सा युधिष्ठिरे।
विशिष्टां वा नरश्रेष्ठ शीलवान्भव पुत्रक॥ 12-124-14(69720)
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः।
न हि किंचिदसाध्यंवै लोके शीलवतां सताम्॥ 12-124-15(69721)
एकरात्रेण मान्धाता त्र्यहेण जनमेजयः।
सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान्॥ 12-124-16(69722)
एते हि पार्थिवाः सर्वे शीलवन्तो यशोन्विताः।
ततस्तेषां गुणक्रीता वसुधा स्वयमागता॥ 12-124-17(69723)
दुर्योधन उवाच। 12-124-18x(5680)
कथं तत्प्राप्यते शीलं श्रोतुमिच्छामि भारत।
येन शीलेन संप्राप्ताः क्षिप्रमेव वसुंधराम्॥ 12-124-18(69724)
धृतराष्ट्र उवाच। 12-124-19x(5681)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदेन पुरा वृत्तं शीलमाश्रित्य भारत॥ 12-124-19(69725)
प्रा--देन हृतं राज्यं महेन्द्रस्य महात्मनः।
श---माश्रित्य दैत्येन त्रैलोक्यं च वशे कृतम्॥ 12-124-20(69726)
त--बृहस्पतिं शक्रः प्राञ्जलिः समुपस्थितः।
तमुवाच महाप्राज्ञः श्रेय इच्छामि वेदितुम्॥ 12-124-21(69727)
ततो बृहस्पतिस्तस्मै ज्ञानं नैश्रेयसं परम्।
कथयामास भगवान्देवेन्द्राय कुरूद्वह॥ 12-124-22(69728)
एतावच्छ्रेय इत्येव बृहस्पतिरभाषत।
इन्द्रस्तु भूयः पप्रच्छ को विशेषो भवेदिति॥ 12-124-23(69729)
बृहस्पतिरुवाच। 12-124-24x(5682)
विशेषोऽस्ति महांस्तात भार्गवस्य महात्मनः।
तत्रागमय भद्रं ते भूय एव सुरोत्तम॥ 12-124-24(69730)
आत्मनस्तु ततः श्रेयो भार्गवः सुमहायशाः।
ज्ञानमागमयत्प्रीत्या पुनः स परमद्युतिः॥ 12-124-25(69731)
तेनापि समनुज्ञातो भार्गवेण महात्मना।
श्रेयोऽस्तीति परं भूयः शुक्रमाह शतक्रतुः॥ 12-124-26(69732)
भार्गवस्त्वाह सर्वज्ञः प्रह्लादस्य महात्मनः।
ज्ञानमस्ति विशेषेणेत्युक्तो हृष्टश्च सोऽभवत्॥ 12-124-27(69733)
स तत्र ब्राह्मणो भूत्वा प्रह्लादं पाकशासनः।
स्तुत्वा प्रोवाच मेधावी श्रेय इच्छामि वेदितुम्॥ 12-124-28(69734)
प्रह्लादस्त्वब्रवीद्विप्रं क्षणो नास्ति द्विजोत्तम।
त्रैलोक्यराज्यसक्तस्य ततो नोपदिशामि ते॥ 12-124-29(69735)
ब्राह्मणस्त्वब्रवीद्राजन्यस्मिन्काले क्षणो भवेत्।
तदोपादेष्टुमिच्छामि यदि कार्यान्तरं भवेत्॥ 12-124-30(69736)
ततः प्रीतोऽभवद्राजा प्रह्वादो ब्रह्मवादिनः।
तथेत्युक्त्वा ददौ काले ज्ञानतत्त्वं द्विजे तदा॥ 12-124-31(69737)
ब्राह्मणोऽपि यथान्यायं गुरुवृत्तिमनुत्तमाम्।
चकार सर्वभावेन यद्यच्च मनसेच्छति॥ 12-124-32(69738)
पृष्टश्च तेन बहुशः प्राप्तं कथमरिंदम्।
त्रैलोक्यराज्यं धर्मज्ञ कारणं तद्ब्रवीहि मे।
[प्रह्लादोऽपि महाराज ब्राह्मणं वाक्यमब्रवीत्॥] 12-124-33(69739)
प्रह्लाद उवाच। 12-124-34x(5683)
नासूयामि द्विजान्विप्र राजास्मीति कथंचन।
काम्यानि वदतां तेषां संयच्छामि वहामि च॥ 12-124-34(69740)
ते विस्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा।
तेषां कार्यपथे युक्तं शुश्रूषुमनहंकृतम्॥ 12-124-35(69741)
धर्मात्मानं जितक्रोधं नियतं संयतेन्द्रियम्।
समासिञ्चन्ति शास्त्रज्ञाः क्षौद्रं मध्विव मक्षिकाः॥ 12-124-36(69742)
सोऽहं वागग्रविद्यानां रसानामवलेहिता।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः॥ 12-124-37(69743)
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्।
यद्ब्राह्मणमुखे हव्यमेतच्छ्रुत्वा प्रवर्तते॥ 12-124-38(69744)
एतावच्छेय इत्याह प्रह्लादो ब्रह्मवादिनम्।
शुश्रूषितस्तेन तदा दैत्येन्द्रो वाक्यमब्रवीत्॥ 12-124-39(69745)
यथावद्गुरुवृत्त्या ते प्रीतोऽस्मि द्विजसत्तम।
वरं वृणीष्व भद्रं ते प्रदाताऽस्मि न संशयः॥ 12-124-40(69746)
कृतमित्येव दैत्येन्द्रमुवाच द्विजसत्तमः।
प्रह्लादस्त्वब्रवीत्प्रीतो गृह्यतां वर इत्युत॥ 12-124-41(69747)
ब्राह्मण उवाच। 12-124-42x(5684)
यदि राजन्प्रसन्नस्त्वं मम चेदिच्छसि प्रियम्।
भवतः शीलमिच्छामि प्राप्नुमेष वरो मम॥ 12-124-42(69748)
ततः प्रीतस्तु दैत्येन्द्रो भयमस्याभवन्महत्।
वरे प्रदिष्टे विप्रेण नाल्पचेतायमित्युत॥ 12-124-43(69749)
एवमस्त्विति स प्राह प्रह्लादो विस्मितस्तदा।
उपाकृत्य तु विप्राय वरं दुःखान्वितोऽभवत्॥ 12-124-44(69750)
दत्ते वरे गते विप्रे चिन्ताऽसीन्महती तदा।
प्रह्लादस्य महाराज निश्चयं न च जग्मिवान्॥ 12-124-45(69751)
तस्य चिन्तयतस्तावच्छायाभूतं महाद्युतेः।
तेजोविग्रहवत्तात शरीरमजहात्तदा॥ 12-124-46(69752)
तमपृच्छन्महाराजः प्रह्लादः को भवानिति।
प्रत्याह तं तु शीलोस्मि त्यक्तो गच्छाम्यहं त्वया॥ 12-124-47(69753)
तस्मिन्द्विजोत्तमे राजन्वत्स्याम्यहमरिंदम।
योऽसौ शिष्यत्वमागम्य त्वयि नित्यं समाहितः।
इत्युक्त्वाऽन्तर्हितं तद्वै शक्रं चान्वाविशत्प्रभो॥ 12-124-48(69754)
तस्मिंस्तेजसि याते तु तादृग्रूपस्ततोपरः।
शरीरान्निः सृतस्तस्य को भवानिति सोब्रवीत्॥ 12-124-49(69755)
धर्मं प्रह्लाद मां विद्धि यत्रासौ द्विजसत्तमः।
तत्र यास्यामि दैत्येन्द्र यतः शीलं ततो ह्यहम्॥ 12-124-50(69756)
ततोऽपरो महाराज प्रज्वलन्निव तेजसा।
शरीरान्निः सृतस्तस्य प्रह्लादस्य महात्मनः॥ 12-124-51(69757)
को भवानिति पृष्टश्च तमाह स महाद्युतिः।
सत्यं विद्ध्यसुरेन्द्राद्य प्रयास्ये धर्ममन्वहम्॥ 12-124-52(69758)
तस्मिन्ननुगते धर्मं पुरुषे पुरुषोऽपरः।
निश्चक्राम ततस्तस्मात्पृष्टश्चाह महातपाः॥ 12-124-53(69759)
वृत्तं प्रह्लाद मां विद्धि यतः सत्यं ततो ह्यहम्।
तस्मिन्गते महाश्वेता शरीरात्तस्य निर्ययौ॥ 12-124-54(69760)
पृष्टश्चाह बलं विद्धि यतो वृत्तमहं ततः।
इत्युक्त्वा प्रययौ तत्र यतो वृत्तं नराधिप॥ 12-124-55(69761)
ततः प्रभामयी देवी शरीरात्तस्य निर्ययौ।
तामपृच्छत्स दैत्येन्द्रः सा श्रीरित्येनमब्रवीत्॥ 12-124-56(69762)
उषिताऽस्मि सुखं नित्यं त्वयि सत्यपराक्रम।
त्वया युक्ता गमिष्यामि बलं ह्यनुगता ह्यहम्॥ 12-124-57(69763)
ततो भयं प्रादुरासीत्प्रह्लादस्य महात्मनः।
अपृच्छत च तां भूयः क्व यासि कमलालये॥ 12-124-58(69764)
त्वं हि सत्यव्रता देवी लोकस्य परमेश्वरी।
कश्चासौ ब्राह्मणश्रेष्ठस्तत्त्वमिच्छामि वेदितुम्॥ 12-124-59(69765)
श्रीरुवाच। 12-124-60x(5685)
स शक्तो ब्रह्मचारी यस्त्वत्तश्चैवोपशिक्षितः।
त्रैलोक्ये ते यदश्वर्यं तत्तेनापहृतं प्रभो॥ 12-124-60(69766)
शीलेन हि त्रयो लोकास्त्वया धर्मज्ञ निर्जिताः।
तद्विज्ञाय सुरेन्द्रेण तव शीलं हृतं प्रभो॥ 12-124-61(69767)
धर्मः सत्यं तथा वृत्तं बलं चैव तथाऽप्यहम्।
शीलमूला महाप्राज्ञ सदा नास्त्यत्र संशयः॥ 12-124-62(69768)
भीष्म उवाच। 12-124-63x(5686)
एवमुक्त्वा गता श्रीस्तु ते च सर्वे युधिष्ठिर।
दुर्योधनस्तु पितरं भूय एवाब्रवीत्तदा॥ 12-124-63(69769)
शीलस्य तत्त्वमिच्छामि वेत्तुं कौरवनन्दन।
प्राप्यते च यथा शीलं तं चोपायं ब्रवीहि मे॥ 12-124-64(69770)
धृतराष्ट्र उवाच। 12-124-65x(5687)
सोपायं पूर्वमुद्दिष्टं प्रह्लादेन महात्मना।
संक्षेपतस्तु शीलस्य शृणु प्राप्तिं नरेश्वर॥ 12-124-65(69771)
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा।
अनुग्रहश्च दानं च शीलमेतत्प्रशस्यते॥ 12-124-66(69772)
यदन्येषां हितं न स्यादात्मनः कर्म पौरुषम्।
अपत्रपेत वा येन न तत्कुर्यात्कथंचन॥ 12-124-67(69773)
तत्तु कर्म तथा कुर्याद्येन श्लाध्येत संसदि।
शीलं समासेनैतत्ते कथितं कुरुसत्तम॥ 12-124-68(69774)
यद्यप्यशीला नृपते प्राप्नुवन्ति श्रियं क्वचित्।
न भुञ्जते चिरं तात समूलाश्च पतन्ति ते॥ 12-124-69(69775)
धृतराष्ट्र उवाच। 12-124-70x(5688)
एतद्विदित्वा तत्त्वेन शीलवान्भव पुत्रक।
यदीच्छसि श्रियं तात सुविशिष्टां युधिष्ठिरात्।
`अधिकां चापि राजेन्द्र ततस्त्वं शीलवान्भवा॥' 12-124-70(69776)
भीष्म उवाच। 12-124-71x(5689)
एतत्कथितवान्पुत्रे धृतराष्ट्रो महीपतिः।
एतत्कुरुष्व कौन्तेय ततः प्राप्स्यसि तत्फलम्॥ ॥ 12-124-71(69777)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्विशत्यधिकशततमोऽध्यायः॥ 124॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-124-1 धर्मस्य कारणमिति शेषः॥ 12-124-8 यदि सम्यग्भविष्यसाति द. पाठः॥ 12-124-13 ऋद्धिं वैश्रवणीमिति झ. पाठः॥ 12-124-22 नैश्रेयचसं मोक्षोपयोगि॥ 12-124-23 को विशेषः। नैश्रेयसादपि किंश्रेय इत्यर्थः॥ 12-124-37 क्षुद्राभिर्मधुमक्षिकाभिर्निर्मितं क्षौद्रं मधु। तत्र मक्षिकामध्विव मां ते शास्त्रेण सिञ्चन्ति। वागग्रविद्यानां वागग्रे एवं नतु पुस्तके विद्या येषां तेषाम्। सोऽहं वागन्त्यपुष्टानां मधूनां परिलेहितेति ड. पाठः॥ 12-124-43 विप्रेण विप्राय। चेतायमिति संधिरार्षः॥ 12-124-46 तेजोविग्रहवत् तेजोमयशरीरं शीलम्॥ 12-124-64 शीलं समधिगच्छामीति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|